ताम्रकम्

सुधाव्याख्या

अथेति । ताम्यति, तम्यते, वा । ‘तमु काङ्क्षायाम्’ (दि० प० से०) । ‘अमितम्योर्दीर्घश्च’ (उ० २.१६) इति रक् । स्वार्थे कन् (ज्ञापि० ५.४.५) । -‘तम्यमिचमां दीर्घश्च’ इति रक्-इति मुकुटस्त्वपाणिनीयः ॥


प्रक्रिया

धातुः -


तमुँ काङ्क्षायाम्
तम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ताम् + रक् – उणादि २.१६
ताम् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ताम्र + सु + कन् – ज्ञापि ५.४.५
ताम्र + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
ताम्र + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ताम्रकम्
x000D