उदुम्बरम्

सुधाव्याख्या

उं शम्भुं वृणोति । ‘वृञ् वरणे' (स्वा० उ० से०) । ‘संज्ञायां भृतॄवृजि-' (३.२.४६) इति खच् । 'अरुर्द्विषत्-’ (६.३.६७) इति मुम् । उत्कृष्टमुंवरम् । प्रादिसमासः (वा० २.२.१८) । ‘उदुम्बरस्तु देहल्यां वृक्षभेदे च पण्डके । कुष्ठभेदेऽपि च पुमांस्ताम्रे तु स्यान्नपुंसकम्’ (इति मेदिनी) । प्रज्ञाद्यणि (५.४.३८) तु । ‘औदुंबरं भवेत्ताम्रे फलादौ यज्ञशाखिनः’ इत्यजयः ॥