अमरकोशः


श्लोकः

अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः । दुर्वर्ण रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शृङ्गीकनक शृङ्गीकनकम् नपुंसकलिङ्गः शृङ्गीं कनति । क्वुन् उणादिः अकारान्तः
2 दुर्वर्ण दुर्वर्णम् नपुंसकलिङ्गः सुवर्णापेक्षया दुष्टो वर्णोऽस्य, अनेन वा । तत्पुरुषः समासः अकारान्तः
3 रजत रजतम् नपुंसकलिङ्गः रजति, रज्यते वा । अतच् उणादिः अकारान्तः
4 रूप्य रूप्यम् नपुंसकलिङ्गः यत् तद्धितः अकारान्तः
5 खर्जूरी खर्जूरीम् नपुंसकलिङ्गः खर्जति । ऊर उणादिः ईकारान्तः
6 श्वेत श्वेतम् नपुंसकलिङ्गः श्वेतते । अच् कृत् अकारान्तः