खर्जूरम्

सुधाव्याख्या

खर्जति । ‘खर्ज व्यथने’ (भ्वा० प० से०) । ‘खर्जपिञ्जादिभ्य ऊरोलचौ’ (उ० ४.१४०) इत्यूरः । ‘खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः’ (इति हैमः) ॥


प्रक्रिया

धातुः -


खर्जँ व्यथने
खर्ज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
खज् + ऊर – उणादि ४.१४०
खर्जूरम्
x000D