श्वेतम्

सुधाव्याख्या

श्वेतते । ‘श्विता वर्णे (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘श्वेतो द्वीपाद्रिभेदयोः । श्वेता वराटिकाकाष्ठपाटलाशङ्खिनीषु च । क्लीबं रूप्येऽन्यवच्छूक्ले' (इति मेदिनी) ॥