रजतम्

सुधाव्याख्या

रजति, रज्यते वा । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । ‘पृषिरञ्जिभ्यां कित्' (उ० ३.१११) इत्यतच् । ‘रजतं त्रिषु शुक्ले स्यात् । क्लीबं हारे च दुर्वर्णे' इति विश्वः (मेदिनी) ॥