शृङ्गीकनकम्

सुधाव्याख्या

अलमिति । अलंकारसम्बन्धि सुवर्णम् । शृङ्गिणामी । शृङ्गीं कनति । ‘कनी दीप्तौ' (भ्वा० प० से०) क्वुन् (उ० २.३२) । ‘शृङ्गी' इति पृथग् नाम वा । ‘स्त्री शृङ्गी मण्डनसुवर्णम्' इति रत्नकोषः । ‘भूषणं कनकं शृङ्गी' इति नाममाला च । अल्पं शृङ्गं प्राधान्यं वा यस्याः । गौरादिः (४.१.४१) । ‘स्त्री स्यात्काचिन्मृणाल्यादि' इति वचनात् ॥


प्रक्रिया

धातुः -


(शृङ्ग)
शृङ्गी
(शृङ्गी + अम्) कनीँ दीप्तौ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शृङ्गी + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
शृङ्गी + कन् + क्वुन् – उणादि २.३२
शृङ्गी + कन् + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शृङ्गी + कन् + अक - युवोरनाकौ 7.1.1
शृङ्गीकनकम्
x000D