अमरकोशः


श्लोकः

सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके । मत्स्यण्डी फाणितं खण्डविकारे शर्करा सिता ॥ ४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सौवर्चल सौवर्चलम् नपुंसकलिङ्गः सुष्ठु वर्च्यते दीप्यते । कलच् उणादिः अकारान्तः
2 अक्ष अक्षम् नपुंसकलिङ्गः अक्षति । अच् कृत् अकारान्तः
3 रुचक रुचकम् नपुंसकलिङ्गः रोचते । क्वुन् उणादिः अकारान्तः
4 तिलक तिलकम् नपुंसकलिङ्गः तिलति । क्वुन् उणादिः अकारान्तः
5 मत्स्यण्डी मत्स्यण्डी स्त्रीलिङ्गः मदं मुदं वा स्यन्दते । अण् कृत् ईकारान्तः
6 फाणित फाणितम् नपुंसकलिङ्गः फाण्यते (स्म) । क्त कृत् अकारान्तः
7 खण्डविकार खण्डविकारः पुंलिङ्गः खण्डो ‘विकारोऽस्य’ ॥ बहुव्रीहिः समासः अकारान्तः
8 शर्करा शर्करा स्त्रीलिङ्गः शृणाति पित्तम् । करन् उणादिः आकारान्तः
9 सिता सिता स्त्रीलिङ्गः सिनोति । क्त उणादिः आकारान्तः