सौवर्चलम्

सुधाव्याख्या

साविति । सुष्ठु वर्च्यते दीप्यते । 'वर्च दीप्तौ' (भ्वा० आ० से०) । वृषादित्वात् (उ० १.१०६) कलच् । प्रज्ञाद्यण् (५.४.३८) । ‘अथ सौवर्चलं सर्जक्षारे च लवणान्तरे’ (इति मेदिनी) ॥