अक्षम्

सुधाव्याख्या

अक्षति । ‘अक्षू व्याप्तौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘अक्षो रथस्यावयवे व्यवहारे बिभीतके । पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ । अक्षं सौवर्चले तुत्थे हृषीके' इति हेमचन्द्रः ॥