मत्स्यण्डी

सुधाव्याख्या

मेति । मदं मुदं वा स्यन्दते । ‘स्यन्दू प्रस्रवणे' (भ्वा० आ० से०) । ‘कर्मण्यण्' (३.२.१) । ‘टिड्ढा-' (४.१.१५) इति ङीप् । पृषोदरादिः (६.३.१०९) ॥


प्रक्रिया

धातुः -


स्यन्दूँ प्रस्रवणे
स्यन्द् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मद् + अम् + स्यन्द् + अण् - कर्मण्यण् 3.2.1
मद् + स्यन्द् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
मद् + स्यन्द् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मद् + स्यन्द + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
मद्स्यन्द + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मद्स्यन्द् + ई - यस्येति च 6.4.148
मत्स्यण्डी - पृषोदरादीनि यथोपदिष्टम् 6.3.109
मत्स्यण्डी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मत्स्यण्डी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मत्स्यण्डी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D