रुचकम्

सुधाव्याख्या

रोचते । ‘रुच दीप्तौ' (भ्वा० आ० से०) । क्वुन् (उ० २.३२) । ‘रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्यद्रव्येऽपि कटकेऽपि च' इति विश्वमेदिन्यौ ॥