अमरकोशः


श्लोकः

मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम् । जीरको जरणोऽजाजी कणा कृष्णे तु जीरके ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मरीच मरीचम् नपुंसकलिङ्गः म्रियते विषमनेन । ईच बाहुलकात् अकारान्तः
2 कोलक कोलकम् नपुंसकलिङ्गः कोलति । वुन् उणादिः अकारान्तः
3 कृष्ण कृष्णम् नपुंसकलिङ्गः कर्षति । नक् उणादिः अकारान्तः
4 ऊषण ऊषणम् नपुंसकलिङ्गः ऊषति । ल्युट् कृत् अकारान्तः
5 धर्मपत्तन धर्मपत्तनम् नपुंसकलिङ्गः धर्मपत्तने जातम् । अण् तद्धितः अकारान्तः
6 जीरक जीरकः पुंलिङ्गः जवति । रक् उणादिः अकारान्तः
7 जरण जरणः पुंलिङ्गः जरयति ल्यु कृत् अकारान्तः
8 अजाजी अजाजी पुंलिङ्गः अजमजति । अण् कृत् ईकारान्तः
9 कणा कणा स्त्रीलिङ्गः कणति । अच् कृत् आकारान्तः