ऊषणम्

सुधाव्याख्या

ऊषति । ‘ऊष दाहे’ ‘रुजायाम्' (भ्वा० प० से०) । ल्युट् (३.३.११३) । ‘ऊषणं मरिचे क्लीबं कणाया- मूषणा स्मृता' (इति मेदिनी) । (उषणम्) इति ह्रस्वपाठे । ‘उष दाहे' (भ्वा० प० से०) संज्ञापूर्वकत्वाद्गुणाभावः ॥