कृष्णम्

सुधाव्याख्या

कर्षति । ‘कृष विलेखने’ (भ्वा० प० से०) ‘कृषेर्वर्णे (उ० ३.४) इति नक् । ‘कृष्णः सत्यवतीपुत्रे वायसे केशवेऽर्जुने । कृष्णा स्याद्द्रौपदीनीलीकणाद्राक्षासु योषिति । मेचके वाच्यलिङ्गः स्यात् क्लीबे मरिचलोहयोः' इति विश्वः (मेदिनी) ॥