जरणम्

सुधाव्याख्या

जरयति ‘जॄष वयोहानौ' (दि० प० से०) । नन्द्यादिल्युः (३.१.१३४) । ‘जरणं हिङ्गुनि स्मृतम् । जरणो जीरकेऽपि स्यात्कृष्णे सौवर्चलेऽपि च' इति विश्वः ॥