अमरकोशः


श्लोकः

रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम् । स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रङ्ग रङ्गम् नपुंसकलिङ्गः रङ्गति । अच् कृत् अकारान्तः
2 वङ्ग वङ्गम् नपुंसकलिङ्गः वङ्गति अच् कृत् अकारान्तः
3 पिचु पिचुः पुंलिङ्गः पिचति । उणादिः उकारान्तः
4 तूल तूलः पुंलिङ्गः तूलयति । कृत् अकारान्तः
5 कमलोत्तर कमलोत्तरम् नपुंसकलिङ्गः कमलादुत्तरम् ॥ तत्पुरुषः समासः अकारान्तः
6 कुसम्भ कुसम्भम् नपुंसकलिङ्गः कुस्यति । उम्भ उणादिः अकारान्तः
7 वह्निशिख वह्निशिखम् नपुंसकलिङ्गः वह्निवत् शिखास्य ॥ बहुव्रीहिः समासः अकारान्तः
8 महारजन महारजनम् नपुंसकलिङ्गः महच्च तद्रजनं च तत्पुरुषः समासः अकारान्तः