तूलः

सुधाव्याख्या

तूलयति । तुल्यते, वा । ‘तूल निष्कर्षे' (भ्वा० प० से०) ‘इगुपध-' (३.१.१३५) इति कः । घञ् (३.३.१९) वा । ‘तूलं स्याद्ब्रह्मदारुणि । आकाशेऽथ | पिचौ न स्त्री' इति विश्वः (मेदिनी) । ‘पिचुतूलः' इति रभसात्सङ्घातोऽपि ॥