वङ्गम्

सुधाव्याख्या

वङ्गति ‘वगि गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘वङ्गं सीसकरङ्गयोः । वार्ताकेऽपि च कार्पासे पुम्भूम्नि नीवृदन्तरे' इति मेदिनी) । 'वङ्गः कार्पासे वृन्ताके वङ्गा जनपदान्तरे । वङ्गं त्रपुणि सीसे च' इति हैमः ॥