महारजनम्

सुधाव्याख्या

रज्यतेऽनेन । ल्युट् (३.३.११५) । ‘रजकरजनरजः सूपसंख्यानम्' (वा० ६.४.२४) इति नलोपः । ‘रज्जेः क्वुन्’ (उ० २.७९) वा । महच्च तद्रजनं च । ‘सन्महत्-' (२.१.६१) इति समासः । ‘महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः’ (इति मेदिनी) ॥