अमरकोशः


श्लोकः

गैरेयमर्थ्य गिरिजमश्मजं च शिलाजतु । बोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ १०४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गैरेय गैरेयम् नपुंसकलिङ्गः गिरौ भवम् । ढक् तद्धितः अकारान्तः
2 अर्थ्य अर्थ्यम् नपुंसकलिङ्गः अर्थादनपेतम्, वा । यत् तद्धितः अकारान्तः
3 गिरिज गिरिजम् नपुंसकलिङ्गः गिरेर्जातम् । कृत् अकारान्तः
4 अश्मज अश्मजम् नपुंसकलिङ्गः अश्मनो जातम् ॥ कृत् अकारान्तः
5 शिलाजतु शिलाजतुम् नपुंसकलिङ्गः शिलाया जत्विव । तत्पुरुषः समासः उकारान्तः
6 बोल बोलः पुंलिङ्गः बोलयति । अच् कृत् अकारान्तः
7 गन्धरस गन्धरसः पुंलिङ्गः गन्धवान् रसोऽस्य । बहुव्रीहिः समासः अकारान्तः
8 प्राण प्राणः पुंलिङ्गः प्राणिति, अनेन वा । अच् कृत् अकारान्तः
9 पिण्ड पिण्डः पुंलिङ्गः पिण्डते । अच् कृत् अकारान्तः
10 गोपरस गोपरसः पुंलिङ्गः गां जलं स्यति । अकारान्तः