अर्थ्यम्

सुधाव्याख्या

अर्थ्यते । ‘अर्थ उपयाच्ञायाम्’ (चु० आ० से०) ण्यन्तः । ‘अचो यत्' (३.१.९७) । अर्थादनपेतम्, वा । ‘धर्मपथ्य-’ (४.४.९२) इति यत् । ‘अर्थ्यो विपश्चिति न्याय्ये त्रिष्वर्थं तु शिलाजतु' इति यान्ते रुद्रः ॥