गेपरसः

सुधाव्याख्या

रसयति, रस्यते, अनेन वा । ‘रस आस्वादने’ (चु० उ० से०) । अच् (३.१.१३४) । गोपे उत्पत्तौ रसोऽस्य । ‘गोपरसः’ इति समस्तमपि–इति स्वामी ॥


प्रक्रिया

धातुः -


गो (पा रक्षणे) - सुपो धातुप्रातिपदिकयोः 2.4.71
गो + पा + क - सुपि स्थः 3.2.4
गो + पा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गो + प् + अ - आतो लोप इटि च 6.4.64
गोप + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गोप + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गोप + रु - ससजुषो रुः 8.2.66
गोप + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गोपः - खरवसानयोर्विसर्जनीयः 8.3.15
रसँ आस्वादने
रस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रस् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
रस् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
रसः
गोपरस + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गोपरस + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गोपरस + रु - ससजुषो रुः 8.2.66
गोपरस + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गोपरसः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D