प्राणः

सुधाव्याख्या

प्राणिति, अनेन वा । ‘अन प्राणने’ (अ० प० से०) । अच् (३.१.१३४) । ‘हलश्च' (३.३.१२१) इति घञ् वा । ‘प्राणो हृन्मारुते वोले काव्यजीवेऽनिले बले । पुंलिङ्गः पूरिते वाच्यलिङ्गः पुंभूम्नि चासुषु’ (इति मेदिनी) ॥