गिरिजम्

सुधाव्याख्या

गिरेर्जातम् । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘पञ्चम्यामजातौ’ (३.२.९८) इति डः । गिरिजं त्वभ्रकेऽपि स्याच्छिलाजतुनि शैलजे । लोहेऽपि गिरिजा गौरीमातुलुङ्ग्योश्च योषिति’ (इति मेदिनी)॥


प्रक्रिया

धातुः -


जनीँ प्रादुर्भावे
जन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गिरि + ङसि + जन् + ड - पञ्चम्यामजातौ 3.2.98
गिरि + जन् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
गिरि + जन् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
गिरि + ज् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
गिरिजम्
x000D