पिण्डः

सुधाव्याख्या

पिण्डते । ‘पिडि सङ्घाते’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘पिण्डो वृन्दे जपापुष्पे गोले बोलेऽङ्गसिह्लयोः । कवले पिण्डं तु वेश्मैकदेशे जीवनायसोः । बले सान्द्रे पिण्ड्यलाबूखर्जूर्योस्तगरेऽपि च’ इति हेमचन्द्रः ॥