अमरकोशः


श्लोकः

रीतिपुष्पं पुष्पकेतु पौष्पकं कुसुमाञ्जनम् । पिञ्जरं पीतनं तालमालं च हरितालके ॥ १०३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रीतिपुष्प रीतिपुष्पम् नपुंसकलिङ्गः रीतेः पित्तलस्य पुष्पमिव । तत्पुरुषः समासः अकारान्तः
2 पुष्पकेतु पुष्पकेतुम् नपुंसकलिङ्गः पुष्पस्य केतुरिव । तत्पुरुषः समासः उकारान्तः
3 पौष्पक पौष्पकम् नपुंसकलिङ्गः पुष्पस्य प्रतिकृतिः कन् कृत् अकारान्तः
4 कुसुमाञ्जन कुसुमाञ्जनम् नपुंसकलिङ्गः कुसुमनाशकं वा अञ्जनम् ॥ तत्पुरुषः समासः अकारान्तः
5 पिञ्जर पिञ्जरम् नपुंसकलिङ्गः पिञ्जनम् । कृत् अकारान्तः
6 पीतन पीतनम् नपुंसकलिङ्गः पीतं वर्णं नयते । कृत् अकारान्तः
7 ताल तालम् नपुंसकलिङ्गः तालयति, तल्यते वा । कृत् अकारान्तः
8 आल आलम् नपुंसकलिङ्गः आलयति । अच् कृत् अकारान्तः
9 हरितालक हरितालकम् नपुंसकलिङ्गः हरितं वर्णमालाति । कृत् अकारान्तः