तालम्

सुधाव्याख्या

तालयति, तल्यते वा । ‘तल प्रतिष्ठायाम् (चु० प० से०) । ण्यन्तः । अच् (३.१.१३४, ३.३.५६) । ‘तालः कालक्रियामाने हस्तमानद्रुभेदयोः । करास्फोटे करतले हरिताले त्सरावपि (इति हैमः) । ‘तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च सम्मिते । गीतकालक्रियामाने करस्फाले द्रुमान्तरे । वाद्यभाण्डे च कांस्यस्य त्सरौ ताली जटौषधौ । क्लीबं तु हरिताले स्यात्’ इति विश्वः (मेदिनी) ॥