हरितालकम्

सुधाव्याख्या

हरितं वर्णमालाति । ‘आतोऽनुप-’ (३.२.३) इति कः । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘हरितालमलं तालवर्णकं नटभूषणम्’ इति माधवः । ‘हरिताले तु कर्वूरं गोदन्तो नटसंज्ञकः’ इति त्रिकाण्डशेषः ॥


प्रक्रिया

धातुः -


ला आदाने
हरित + अम् + आ + ला - सुपो धातुप्रातिपदिकयोः 2.4.71
हरित + आ + ला + क - आतोऽनुपसर्गे कः 3.2.3
हरित + आ + ला + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
हरित + आ +ल् + अ - आतो लोप इटि च 6.4.64
हरित + आ + ल + कन् – ज्ञापि ५.४.५
हरित + आ + ल + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
हरितालकम् - अकः सवर्णे दीर्घः 6.1.101
x000D