पीतनम्

सुधाव्याख्या

पीतं वर्णं नयते । ‘णय गतौ’ (भ्वा० आ० से०) । ‘णीञ्’ (भ्वा० उ० अ०) वा । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । ‘पीतनं पीतदारुणि । कुङ्कुमे हरिताले च (पुमानाम्रा तके मतः)’ इति विश्वः (मेदिनी) ॥


प्रक्रिया

धातुः -


णयँ गतौ
णय् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नय् - णो नः 6.1.65
पीत + अम् + नय् + ड – वा ३.२.१०१
पीत + नय् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
पीत + नय् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
पीत + न् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
पीतनम्
x000D