पिञ्जरम्

सुधाव्याख्या

पीति । पिञ्जनम् । ‘पिजि वर्णे' (अ० आ० से०) । घञ् । (३.३.१८) । ‘निष्ठायामनिटः’ (वा० ७.३.५३) इति वचनान्न कुत्वम् । पिञ्जं वर्णविशेषं राति । कः (३.२.३) । ‘पिञ्जरोऽश्वान्तरे पीते क्लीबं स्वर्णं च पीतने’ ॥


प्रक्रिया

धातुः -


पिजिँ वर्णे
पिज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिञ्ज् - इदितो नुम् धातोः 7.1.58
पिञ्ज् + घञ् - भावे 3.3.18
पिञ्ज् + अ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिञ्ज
रा दाने
पिञ्ज + अम् + रा + क - आतोऽनुपसर्गे कः 3.2.3
पिञ्ज + रा + क - सुपो धातुप्रातिपदिकयोः 2.4.71
पिञ्ज + रा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पिञ्जर् + अ - आतो लोप इटि च 6.4.64
पिञ्जरम्
x000D