आलम्

सुधाव्याख्या

आलयति । ‘अल भूषणादौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । आलाति वा । ‘ला आदाने (अ० प० अ०) । ‘आतश्चोपसर्गे (३.१.१३६) इति कः । ‘आलं स्यादनल्पहरितालयोः’ इति हेमचन्द्रः ॥