अमरकोशः


श्लोकः

द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः । स्याच्छस्त्री चासिपुत्री च छुरिका चासिधेनुका ॥ ९२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुठार कुठारः पुंलिङ्गः, स्त्रीलिङ्गः कुठे गतिप्रातिघाते आरो गतिरस्य । अण् कृत् अकारान्तः
2 स्वधिति स्वधितिः पुंलिङ्गः, स्त्रीलिङ्गः स्वं धियति । क्तिच् कृत् इकारान्तः
3 परशु परशुः पुंलिङ्गः, स्त्रीलिङ्गः परं शृणाति । कु उणादिः उकारान्तः
4 परश्वध परश्वधः पुंलिङ्गः परस्य श्वयनम् । कृत् अकारान्तः
5 शस्त्री शस्त्री स्त्रीलिङ्गः शस्यतेऽनया । ष्ट्रन् कृत् ईकारान्तः
6 असिपुत्री असिपुत्री स्त्रीलिङ्गः असेः पुत्री ॥ तत्पुरुषः समासः ईकारान्तः
7 छुरिका छुरिका स्त्रीलिङ्गः छुरति । क्वुन् उणादिः आकारान्तः
8 असिधेनुका असिधेनुका स्त्रीलिङ्गः असेर्धेधेनुरिवा ॥ तत्पुरुषः समासः आकारान्तः