असि + ङस् + धेनु + सु – षष्ठी 2.2.8 |
|
असिधेनु |
- सुपो धातुप्रातिपदिकयोः 2.4.71 |
असिधेनु + कन् |
- न सामिवचने 5.4.5, इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । |
असिधेनु + क |
- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9 |
असिधेनुक + टाप् |
- अजाद्यतष्टाप् 4.1.4 |
असिधेनुक + आ |
- हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9 |
असिधेनुका |
- अकः सवर्णे दीर्घः 6.1.101 |
असिधेनुका + सु |
- स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2 |
असिधेनुका + स् |
- उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |
असिधेनुका |
- हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 |