परशुः

सुधाव्याख्या

परं शृणाति । 'शॄ हिंसायाम्' (क्र्या० प० से०) आङ्परयोः | खनिशॄभ्यां डिच्च’ (उ० १.३३) इति कुः ॥


प्रक्रिया

धातुः -


शॄ हिंसायाम्
पर + अम् + शॄ + कु – आङ्परयोः खनिशॄभ्यां डिच्च (१.३३) । उणादिसूत्रम् ।
पर + शॄ + कु - सुपो धातुप्रातिपदिकयोः 2.4.71
पर + श् + उ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9, दित्वात् टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
परशु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
परशु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परशु + रु - ससजुषो रुः 8.2.66
परशु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परशुः - खरवसानयोर्विसर्जनीयः 8.3.15