परश्वधः

सुधाव्याख्या

परस्य श्वयनम् । 'टु ओश्वि गतिवृद्धयोः’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०२) इति ङः । परश्वं धयति । ‘आतोऽनुप-’ (३.२.३) इति कः । (‘पर्श्वघः') अपि - यदाह 'यष्टिपर्श्वहेतिकौ’ इति–इति स्वामी । 'परस्वधः’ इति पाठे तु परस्य स्वं दधाति । काष्ठदण्ड- धारकत्वात् । ‘कुठारः स्त्री च स्वधितिः परशुश्च परश्वधः । कुटाटङ्कः पशुः’ । ‘अथ छुरिका कोशशायिका' इति रभसः ॥


प्रक्रिया

धातुः -


टु ओँ श्वि गतिवृद्धयोः
श्वि - आदिर्ञिटुडवः 1.3.5
पर + श्वि + ड – अन्येभ्योऽपि दृश्यते (3.2.101) । वार्तिकम् ।
पर + श्वि + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
पर + श्व् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
परश्व + अम् (धेट् पाने) - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
परश्व + धे + क - आतोऽनुपसर्गे कः 3.2.3
परश्व + धे + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
परश्व + धा + अ - आदेच उपदेशेऽशिति 6.1.45
परश्व + ध् + अ - आतो लोप इटि च 6.4.64
परश्वध + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
परश्वध + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परश्वध + रु - ससजुषो रुः 8.2.66
परश्वध + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परश्वधः - खरवसानयोर्विसर्जनीयः 8.3.15