अमरकोशः


श्लोकः

शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः । विषयानन्तरो राजा शत्रुर्मित्रमतः परम् ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शण्ड शण्डः पुंलिङ्गः शाम्यति शिश्नाभावात् । उणादिः अकारान्तः
2 वर्षवर वर्षवरः पुंलिङ्गः वृणोति । तत्पुरुषः समासः अकारान्तः
3 सेवक सेवकः पुंलिङ्गः सेवते । ण्वुल् कृत् अकारान्तः
4 अर्थिन् अर्थिन् पुंलिङ्गः अर्थोऽसंनिहितोऽस्यास्ति । इनि तद्धितः नकारान्तः
5 अनुजीविन् अनुजीविन् पुंलिङ्गः अनुजीवितुं शीलः । णिनि कृत् नकारान्तः
6 शत्रु शत्रुः पुंलिङ्गः शातयति । क्रुन् उणादिः उकारान्तः
7 मित्र मित्रः पुंलिङ्गः मेद्यति । क्र उणादिः अकारान्तः