वर्षवरः

सुधाव्याख्या

वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) वरति । ‘वर आवरणे’ () वा । अच् (३.१.१३४) । वर्षस्य रेतःपातस्य वरः । ‘ये त्वल्पसत्त्वाः प्रथमाः क्लीबाश्च स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः’ ॥