मित्रः

सुधाव्याख्या

मीति । मेद्यति । ‘ञिमिदा स्नेहने’ (दि० प० से०) । ‘अमिचिमिदिशसिभ्यः क्रः’ (उ० ४.१६४) । ष्ट्रन् (उ० ४. १५९) इति मुकुटः । तन्न । गुणप्रसङ्गात् । सूत्रस्य सत्वाच्च । मित्रं सुहृदि न द्वयोः । सूर्ये पुंसि स्त्रियां गन्धद्रव्ये दैत्यान्तरे पुमान्’ (इति मेदिनी) ॥