शण्डः

सुधाव्याख्या

शेति । शाम्यति शिश्नाभावात् । ’शमु उपशमे’ (दि० प० से०) । ‘शमेर्ढः’ (उ० १.९९) । ‘शण्ढः क्लीबस्तु कञ्चुकी’ इति (तालव्यादौ) रभसः । ‘शण्ढः स्यात्पुंसि गोपतौ । आकृष्टाण्डे वर्षवरे तृतीयप्रकृतावपि’ (इति मेदिनी) । (‘शण्ढघण्टौ तु सौविदौ । वन्ध्यपुंसीद्वरे क्लीबे’ इति हैमः)