अमरकोशः


श्लोकः

लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् । पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लक्ष लक्षम् नपुंसकलिङ्गः लक्ष्यते । घञ् कृत् अकारान्तः
2 लक्ष्य लक्ष्यम् नपुंसकलिङ्गः यत् कृत् अकारान्तः
3 शरव्य शरव्यम् नपुंसकलिङ्गः शरवे हिंस्राय हितम् । यत् तद्धितः अकारान्तः
4 शराभ्यास शराभ्यासः पुंलिङ्गः शरमोक्षस्याभ्यासः ॥ तत्पुरुषः समासः अकारान्तः
5 उपासन उपासनम् नपुंसकलिङ्गः उपपूर्वः । ल्युट् कृत् अकारान्तः
6 पृषत्क पृषत्कः पुंलिङ्गः पर्षति । शतृ कृत् अकारान्तः
7 बाण बाणः पुंलिङ्गः वणनम् । घञ् कृत् अकारान्तः
8 विशिख विशिखः पुंलिङ्गः विशिष्टा शिखाग्रमस्य । बहुव्रीहिः समासः अकारान्तः
9 अजिह्मग अजिह्मगः पुंलिङ्गः जिह्मस्याभावःअजिह्मामृजु गच्छति । कृत् अकारान्तः
10 खग खगः पुंलिङ्गः खं गच्छति । कृत् अकारान्तः
11 आशुग आशुगः पुंलिङ्गः आशु गच्छति । कृत् अकारान्तः