शरव्यम्

सुधाव्याख्या

शरवे हिंस्राय हितम् । 'उगवादिभ्यो यत्' (५.१.२) यद्वा शरान् व्ययति । ‘व्येञ् संवरणे’ (भ्वा० उ० अ०) । 'सम्प्रसारणिभ्यो डः’ (वा० ३.२.३) –‘आत:-’ (३.२.३) इति कः । सम्प्रसारणम् (६.१.१५) । यणि (६.४.८२) च -इति मुकुटः ॥