अजिह्मगः

सुधाव्याख्या

जिह्मस्याभावः । अजिह्मामृजु गच्छति । ‘अन्येष्वपि' (वा० ३.२.४८) इति डः ॥


प्रक्रिया

धातुः -


गमॢँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जिह्म + गम् + ड – अन्यत्रापि दृश्यत इति वक्तव्यम् (3.2.48) । वार्तिकम् ।
जिह्म + गम् + अ - चुटू 1.3.7
जिह्मग - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
नञ् + जिह्मग + सु - नञ्‌ 2.2.6
नञ् + जिह्मग - सुपो धातुप्रातिपदिकयोः 2.4.71
न + जिह्मग - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अजिह्मग - नलोपो नञः 6.3.73
अजिह्मग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अजिह्मग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अजिह्मग + रु - ससजुषो रुः 8.2.66
अजिह्मग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अजिह्मगः - खरवसानयोर्विसर्जनीयः 8.3.15