पृषत्कः

सुधाव्याख्या

प्रिति । पर्षति । ‘पृष्ठ सेचने’ (भ्वा० प० से०) ‘लटः शतृ’ (३.२.१२४) संज्ञापूर्वकत्वान्न गुणः । यद्वा ‘वर्तमाने पृषत्बृहन्महत्-’ (उ० २.८४) इति साधुः । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥