बाणः

सुधाव्याख्या

वणनम् । ‘वण शब्दे’ (भ्वा० प० से०) घञ् (३.३.१८) । बाणः शब्दोऽस्त्यस्य । अर्शआद्यच् (५.२.१२७) ‘बाणः स्याद्वोस्तने दैत्यभेदे केवलकाण्डयोः । बाणा तु बाणमूले स्त्री नीलझिण्ट्यां पुनर्दयोः’ (इति मेदिनी) ॥