अमरकोशः


श्लोकः

आधोरणा हस्तिपका हस्त्यारोहा निषादिनः । नियन्ता प्राजिता यन्ता सूत: क्षत्ता च सारथिः ॥ ५९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आधोरण आधोरणः पुंलिङ्गः आधोरयन्ति । ल्यु कृत् अकारान्तः
2 हस्तिपक हस्तिपकाः पुंलिङ्गः हस्तिनं पान्ति । कृत् अकारान्तः
3 हस्त्यारोह हस्त्यारोहाः पुंलिङ्गः हस्तिनमारोहयन्ति । अण् कृत् अकारान्तः
4 निषादिन् निषादिनः पुंलिङ्गः निषीदन्त्यवश्यम् । णिनि कृत् नकारान्तः
5 नियन्तृ नियन्ताः पुंलिङ्गः नियच्छति । तृच् कृत् ऋकारान्तः
6 प्राजितृ प्राजिता पुंलिङ्गः प्राजति । तृच् कृत् ऋकारान्तः
7 यन्तृ यन्ता पुंलिङ्गः यच्छति । तृच् कृत् ऋकारान्तः
8 सूत सूतः पुंलिङ्गः सुवति गमयति स्माश्वान् । क्त कृत् अकारान्तः
9 क्षत्तृ क्षत्तृः पुंलिङ्गः क्षदति । तृच् कृत् ऋकारान्तः
10 सारथि सारथिः पुंलिङ्गः सरत्यश्वान् । घतिन् उणादिः इकारान्तः