हस्तिपकाः

सुधाव्याख्या

हस्तिनं पान्ति । ‘पा रक्षणे’ (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


पा रक्षणे
हस्ति + अम् + पा + क - आतोऽनुपसर्गे कः 3.2.3
हस्ति + पा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
हस्ति + प् + अ - आतो लोप इटि च 6.4.64
हस्तिप + कन् - न सामिवचने 5.4.5, इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति ।
हस्तिप + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
हस्तिपक + जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
हस्तिपक + अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
हस्तिपकास् - प्रथमयोः पूर्वसवर्णः 6.1.102
हस्तिपकारु - ससजुषो रुः 8.2.66
हस्तिपकार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हस्तिपकाः - खरवसानयोर्विसर्जनीयः 8.3.15