नियन्ताः

सुधाव्याख्या

नीति । नियच्छति । अन्तर्भावितण्यर्थो वा । ‘यमु उपरमे’ (भ्वा० प० अ०) । तृच् (३.१.१३३) ॥


प्रक्रिया

धातुः -


यमँ उपरमे
यम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नि + यम् + तृच् - ण्वुल्तृचौ 3.1.133
नि + यम् + तृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नि + यंतृ - नश्चापदान्तस्य झलि 8.3.24
नि + यन्तृ - अनुस्वारस्य ययि परसवर्णः 8.4.58
नियन्तृ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नियन्तृ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नियन्त् + अनङ् + स् - ऋदुशनस्पुरुदंसोऽनेहसां च 7.1.94
नियन्त् + अन् + स् - हलन्त्यम् 1.3.3,उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नियन्त् + आन् + स् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
नियन्त् + आन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
नियन्ता - नलोपः प्रातिपदिकान्तस्य 8.2.7