सूतः

सुधाव्याख्या

सुवति गमयति स्माश्वान् । ‘षू प्रेरणे’ (तु० प० से०) । क्तः (३.२.१०२) । ‘सूतस्तु सारथौ तक्ष्णि क्षत्त्रियाद्ब्रह्मणीसुते । वन्दिपारदयोः (पुंसि, प्रसूते प्रेरिते त्रिषु)’ इति विश्वमेदिन्यौ ॥