प्राजति । ‘अज गत्यादौ’ (भ्वा० प० से०) । तृच् अन्तर्भावितण्यर्थे वा । ‘वलादावार्धधातुके वेष्यते’ (भाष्य० २.४५६) इति वी न–प्राजयति-इति स्वामिमुकुटोक्तं चिन्त्यम् । णिचि वीभावस्य नित्यत्वात् । 'प्राजयिता' इति रूपप्रसङ्गाच्च । यदपि-वानुवृत्तेर्वाभावो नास्ति–इति स्वामिनोक्तम् । तदपि चिन्त्यम् । वृत्यादौ वानुवृत्तेरदर्शनात् ॥